17.श्वयथुचिकित्सिताध्यायः
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
सर्वत्र सर्वाङ्गसरे दोषजे श्वयथौ पुरा।
सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत्॥१॥
नागरातिविषादारुविडङ्गेन्द्रयवोषणम्।
अथवा विजयाशुण्ठीदेवदारुपुनर्नवम्॥२॥
नवायसं वा दोषाढ्यः शुद्ध्यै मूत्रहरीतकीः।
वराक्वाथेन कटुकाकुम्भायस्त्र्यूषणानि वा॥३॥
अथवा गुग्गुलुं तद्वज्जतु वा शैलसम्भवम्।
मन्दाग्निः शीलयेदामगुरुभिन्नविबद्धविट्॥४॥
तक्रं सौवर्चलव्योषक्षौद्रयुक्तं गुडाभयाम्।
तक्रानुपानमथवा तद्वद्वा गुडनागरम्॥५॥
आर्द्रकं वा समगुडं प्रकुञ्चार्धविवर्धितम्।
परं पञ्चपलं मासं यूषक्षीररसाशनः॥६॥
गुल्मोदरार्शःश्वयथुप्रमेहान् श्वासप्रतिश्यालसकाविपाकान्।
सकामलाशोषमनोविकारान् कासं कफं चैव जयेत्प्रयोगः॥७॥
घृतमार्द्रकनागरस्य कल्कस्वरसाभ्यां पयसा साधयित्वा।
श्वयथुक्षवथूदराग्निसादैरभिभूतोऽपि पिबन् भवत्यरोगः॥८॥
निरामो बद्धशमलः पिबेच्छ्वयथुपीडितः।
त्रिकटुत्रिवृतादन्तीचित्रकैः साधितं पयः॥९॥
मूत्रं गोर्वा महिष्या वा सक्षीरं क्षीरभोजनः।
सप्ताहं मासमथवा स्यादुष्ट्रक्षीरवर्तनः॥१०॥
यवानकं यवक्षारं यवानीं पञ्चकोलकम्।
मरिचं दाडिमं पाठां धान्यकामम्लवेतसम्॥११॥
बालबिल्वं कर्षांशं साधयेत्सलिलाढके।
तेन पक्वो घृतप्रस्थः शोफार्शोगुल्ममेहहा॥१२॥
दध्नश्चित्रकगर्भाद्वा घृतं तत्तक्रसंयुतम्।
पक्वं सचित्रकं तद्वद्गुणैः युञ्ज्याच्च कालवित्॥१३॥
धान्वन्तरं महातिक्तं कल्याणमभयाघृतम्।
दशमूलकषायस्य कंसे पथ्याशतं पचेत्॥१४॥
दत्त्वा गुडतुलां तस्मिन् लेहे दद्याद्विचूर्णितम्।
त्रिजातकं त्रिकटुकं किञ्चिच्च यवशूकजम्॥१५॥
प्रस्थार्धं हिमे क्षौद्रात्तन्निहन्त्युपयोजितम्।
प्रवृद्धशोफज्वरमेहगुल्मकार्श्यामवाताम्लकरक्तपित्तम्।
वैवर्ण्यमूत्रानिलशुक्रदोषश्वासारुचिप्लीहगरोदरं च॥१६॥
पुराणयवशाल्यन्नं दशमूलाम्बुसाधितम्॥१७॥
अल्पमल्पपटुस्नेहं भोजनं श्वयथोर्हितम्।
क्षारव्योषान्वितैर्मौद्गैः कौलत्थैः सकणै रसैः॥१८॥
तथा जाङ्गलजैः कूर्मगोधाशल्यकजैरपि।
अनम्लं मथितं पाने मद्यान्यौषधवन्ति च॥१९॥
अजाजीशठीजीवन्तीकारवीपौष्कराग्निकैः।
बिल्वमध्ययवक्षारवृक्षाम्लैर्बदरोन्मितैः॥२०॥
कृता पेयाऽऽज्यतैलाभ्यां युक्तिभृष्टा परं हिता।
शोफातिसारहृद्रोगगुल्मार्शोल्पाग्निमेहिनाम्॥२१॥
गुणैस्तद्वच्च पाठायाः पञ्चकोलेन साधिता।
शैलेयकुष्ठस्थौणेयरेणुकागुरुपद्मकैः॥२२॥
श्रीवेष्टकनख़स्पृक्कादेवदारुप्रियङ्गुभिः।
मांसीमागाधिकावन्यधान्यध्यामकवालकैः॥२३॥
चतुर्जातकतालीसमुस्तागन्धपलाशकैः।
कुर्यादभ्यञ्जनं तैलं लेपं स्नानाय तूदकम्॥२४॥
स्नानं वा निम्बवर्षाभूनक्तमालार्कवारिणा।
एकाङ्गशोफे वर्षाभूकरवीरककिंशुकैः॥२५॥
विशालात्रिफलारोध्रनलिकादेवदारुभिः।
हिंस्राकोशातकीमाद्रीतालपर्णीजयन्तिभिः॥२६॥
स्थूलकाकादनीशालनाकुलीवृषपर्णिभिः।
वृध्द्यार्द्धिहस्तिकर्णैश्च सुख़ोष्णैर्लेपनं हितम्॥२७॥
अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत्।
तैलमेरण्डजं वातविड्विबन्धे तदेव तु॥२८॥
प्राग्भक्तं पयसा युक्तं रसैर्वा कारयेत्तथा।
स्वेदाभ्यङ्गान् समीरघ्नान् लेपमेकाङ्गगे पुनः॥२९॥
मातुलुङ्गाग्निमन्थेन शुण्ठीहिंस्रामराह्वयैः।
पैत्ते तिक्तं पिबेत्सर्पिर्न्यग्रोधाद्येन वा शृतम्॥३०॥
क्षीरं तृड्दाहमोहेषु लेपाभ्यङ्गाश्च शीतलाः।
पटोलमूलत्रायन्तीयष्ट्याह्वकटुकाभयाः॥३१॥
दारु दार्वी हिमं दन्ती विशाला निचुलं कणा।
तैः क्वाथः सघृतः पीतो हन्त्यन्तस्तापतृड्भ्रमान्॥३२॥
ससन्निपातवीसर्पशोफदाहविषज्वरान्।
आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत्॥३३॥
स्रोतोविबन्धे मन्देऽग्नावरुचौ स्तिमिताशयः।
क्षारचूर्णासवारिष्टमूत्रतक्राणि शीलयेत्॥३४॥
कृष्णापुराणपिण्याकशिग्रुत्वक्ऽऽसिकतातसीः।
प्रलेपोन्मर्दने युञ्ज्यात्सुख़ोष्णा मूत्रकल्किताः॥३५॥
स्नानं मूत्राम्भसी सिद्धे कुष्ठतर्कारिचित्रकैः।
कुलत्थनागराभ्यां वा चण्डाऽगुरु विलेपने॥३६॥
कालाजशृङ्गीसरलबस्तगन्धाहयाह्वयाः।
एकैषिका लेपः स्याच्छ्वयथावेकगात्रगे॥३७॥
यथादोषं यथासन्नं शुद्धिं रक्तावसेचनम्।
कुर्वीत, मिश्रदोषे तु दोषोद्रेकबलात्क्रियाम्॥३८॥
अजाजिपाथाघनपञ्चकोलव्याघ्रारजन्यः सुखतोयपीताः।
शोफं त्रिदोषं चिरजं प्रवृद्धं निघ्नन्ति भूनिम्बमहौषधे च॥३९॥
अमृताद्वितयं सिवाटिका सुरकाष्ठं सपुरं सगोजलम्।
श्वयथूदरकुष्ठपाण्डुताकृमिमेहोर्ध्वकफानिलापहम्॥४०॥
इति निजमधिकृत्य पथ्यमुक्तं क्षतजनिते क्षतजं विशोधनीयम्।
स्रुतिहिमघृतलेपसेकरेकैर्विषजनिते विषजिच्च शोफ इष्टम्॥४१॥
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं
गौडं पिष्टान्नं दधि सलवणं विज्जलं मद्यमम्लम्।
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च॥४२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वयथुचिकित्सितं
नाम सप्तदशोऽध्यायः॥१७॥